Search This Blog

Sunday, 24 January 2016

parmanand_strotram

परमानन्द-संयुक्तंनिर्विकारं निरामयम्।
ध्यानहीना न पश्यन्तिनिजदेहे व्यवस्थितम् ॥ १॥

अनन्तसुखसम्पन्नंज्ञानामृतपयोधरम्।
अनन्तवीर्यसम्पन्नंदर्शनं परमात्मन: ॥ २॥

निर्विकारं निराबाधंसर्वसङ्गविवर्जितम्।
परमानन्दसम्पन्नंशुद्धचैतन्यलक्षणम्॥ ३॥

उत्तमा स्वात्मचिन्ता स्यात् देहचिन्ता च मध्यमा।
अधमा कामचिन्ता स्यात्,परचिन्ताऽधमाधमा॥ ४॥

निर्विकल्प समुत्पन्नंज्ञानमेव सुधारसम्।
विवेकमञ्जलिं कृत्वातं पिबंति तपस्विन:॥ ५॥

सदानन्दमयं जीवंयो जानाति स पण्डित:।
स सेवते निजात्मानंपरमानन्दकारणम्॥ ६॥

नलिन्याच्च यथा नीरंभिन्नं तिष्ठति सर्वदा।
सोऽयमात्मा स्वभावेनदेहे तिष्ठति निर्मल:॥ ७॥

द्रव्यकर्ममलैर्मुक्तं भावकर्मविवर्जितम्।
नोकर्मरहितं सिद्धं निश्चयेन चिदात्मकम्॥ ८॥

आनन्दं ब्रह्मणो रूपंनिजदेहे व्यवस्थितम्।
ध्यानहीना न पश्यन्ति,जात्यन्धा इव भास्करम्॥ ९॥

सद्ध्यानं क्रियते भव्यैर्मनो येन विलीयते।
तत्क्षणं दृश्यते शुद्धंचिच्चमत्कारलक्षणम्॥ १०॥

ये ध्यानशीला मुनय: प्रधानास्ते दु:खहीना नियमाद्भवन्ति।
सम्प्राप्य शीघ्रं परमात्मतत्त्वंव्रजन्ति मोक्षं क्षणमेकमेव॥ ११॥

आनन्दरूपं परमात्मतत्त्वंसमस्तसंकल्पविकल्पमुक्तम्।
स्वभावलीना निवसन्ति नित्यंजानाति योगी स्वयमेव तत्त्वम्॥१२॥

चिदानन्दमयं शुद्धंनिराकारं निरामयम्।
अनन्तसुखसम्पन्नं सर्वसङ्गविवर्जितम्॥ १३॥

लोकमात्रप्रमाणोऽयंनिश्चये न हि संशय:।
व्यवहारे तनुमात्र: कथित: परमेश्वरै:॥ १४॥

यत्क्षणं दृश्यते शुद्धं तत्क्षणं गतविभ्रम:।
स्वस्थचित्त: स्थिरीभूत्वानिर्विकल्पसमाधिना॥१५॥

स एव परमं ब्रह्मस एव जिनपुङ्गव:।
स एव परमं तत्त्वंस एव परमो गुरु : ॥ १६॥

स एव परमं ज्योति:स एव परमं तप:।
स एव परमं ध्यानंस एव परमात्मक:॥ १७॥

स एव सर्वकल्याणंस एव सुखभाजनम्।
स एव शुद्धचिद्रूपंस एव परम: शिव:॥ १८॥

स एव परमानन्द:स एव सुखदायक:।
स एव परमज्ञानंस एव गुणसागर: ॥ १९॥

परमाल्हादसम्पन्नंरागद्वेषविवर्जितम्।
सोऽहं तं देहमध्येषु यो जानाति स पण्डित:॥ २०॥

आकाररहितं शुद्धंस्वस्वरूपे व्यवस्थितम्।
सिद्धमष्टगुणोपेतंनिर्विकारं निरञ्जनम्॥ २१॥

तत्सद्दर्शनं निजात्मानंप्रकाशाय महीयसे।
सहजानन्दचैतन्यंयो जानाति स पण्डित:॥ २२॥

पाषाणेषु यथा हेमदुग्धमध्ये यथा घृतम्।
तिलमध्ये यथा तैलंदेहमध्ये तथा शिव:॥ २३॥

काष्ठमध्ये यथा वह्नि:शक्तिरूपेण तिष्ठति।
अयमात्मा शरीरेषुयो जानाति स पण्डित:॥२४॥

No comments:

Post a Comment