Search This Blog

Sunday, 24 January 2016

saraswati_strotram

सरस्वत्या: प्रसादेनकाव्यं कुर्वन्ति मानवा:।
तस्मान्निश्चलभावेनपूजनीया सरस्वती॥ 1

श्रीसर्वज्ञ-मुखोत्पन्नाभारती बहुभाषिणी।
अज्ञानतिमिरं हन्तिविद्या बहुविकासनी॥ 2

सरस्वती मया दृष्टादिव्या कमललोचना।
हंसस्कन्धसमारूढ़ा,वीणा-पुस्तकधारिणी॥ 3

प्रथमं भारती नामद्वितीयं च सरस्वती।
तृतीयं शारदा देवीचतुर्थं हंसगामिनी॥ 4

पंचमं विदुषां माताषष्ठं वागीश्वरि तथा।
कुमारी सप्तमं प्रोक्तं,अष्टमं ब्रह्मचारिणी॥ 5

नवमं च जगन्मातादशमं ब्राह्मिणी तथा।
एकादशं तु ब्रह्माणीद्वादशं वरदा भवेत्॥ 6

वाणी त्रयोदशं नामभाषाचैव चतुर्दशं।
पंचदशं च श्रुतदेवीषोडशं गौर्निगद्यते॥ 7

एतानि श्रुतनामानिप्रातरुत्थाय य: पठेत्।
तस्य संतुष्यति माताशारदा वरदा भवेत्॥ 8

सरस्वती नमस्तुभ्यंवरदे कामरूपिणी।
विद्यारम्भं करिष्यामिसिद्धिर्भवतु मे सदा॥ 9

No comments:

Post a Comment