Search This Blog

Sunday, 24 January 2016

dev_darshan_strotra

दर्शनं देवदेवस्यदर्शनं पापनाशनम्।
दर्शनं स्वर्गसोपानंदर्शनं मोक्षसाधनम्॥ १॥

दर्शनेन जिनेन्द्राणांसाधूनां वन्दनेन च।
न तिष्ठति चिरं पापंछिद्रहस्ते यथोदकम्॥ २॥

वीतराग - मुखं दृष्ट्वापद्मरागसमप्रभम्।
नैकजन्मकृतं पापंदर्शनेन विनश्यति॥ ३॥

दर्शनं जिनसूर्यस्यसंसार-ध्वान्तनाशनम्।
बोधनं चित्तपद्मस्यसमस्तार्थ-प्रकाशनम्॥ ४॥

दर्शनं जिनचन्द्रस्यसद्धर्मामृत-वर्षणम्।
जन्म-दाहविनाशायवर्धनं सुखवारिधे:॥ ५॥

जीवादितत्त्व प्रतिपादकायसम्यक्त्व मुख्याष्टगुणार्णवाय।
प्रशान्तरूपाय दिगम्बरायदेवाधिदेवाय नमो जिनाय॥ ६॥

चिदानन्दैक - रूपायजिनाय परमात्मने।
परमात्मप्रकाशायनित्यं सिद्धात्मने नम:॥ ७॥

अन्यथा शरणं नास्तित्वमेव शरणं मम।
तस्मात्कारुण्यभावेनरक्ष रक्ष जिनेश्वर:॥ ८॥

न हि त्राता न हि त्रातान हि त्राता जगत्त्रये।
वीतरागात्परो देवोन भूतो न भविष्यति॥ ९॥

जिने भक्तिर्जिने भक्तिर्जिने भक्ति-र्दिनेदिने।
सदा मेऽस्तु सदा मेऽस्तु,सदा मेऽस्तु भवे भवे॥ १०॥

जिनधर्मविनिर्मुक्तोमा भूवंचक्रवत्र्यपि।
स्यां चेटोऽपि दरिद्रोऽपिजिनधर्मानुवासित:॥ ११॥

जन्मजन्मकृतं पापंजन्मकोटिमुपार्जितम्।
जन्ममृत्युजरा-रोगोहन्यते जिनदर्शनात्॥ १२॥

अद्याभवत् सफलता नयन-द्वयस्य,
देव ! त्वदीय चरणाम्बुज वीक्षणेन।
अद्य त्रिलोक-तिलक ! प्रतिभासते मे,

संसार-वारिधिरयं चुलुक-प्रमाण:॥ १३॥

No comments:

Post a Comment